वानर गीता | Vanar Geeta
श्रीपराशर उवाच
शृणु मैत्रेय विप्रर्षे स्तोत्रं श्रीहनुमत्परम् ।
कृतं सर्ववानरैश्च श्रीवानरगीताभिदम्॥
स्तोत्रं सर्वोत्तमं चैव हनुमत्तत्त्वदर्शनम् ।
सर्वमायहरं चैव आधिव्याधिविनाशनम्॥
अगस्त्येन पुरा प्रोक्तं सर्वेषां मुनिसन्निधौ ।
इन्द्रेण याचितं चैतत् लोकोपकरणेच्छया॥
इन्द्रोऽथ परिपप्रच्छ सत्कृतं मुनिपुङ्गवम् ।
अगस्त्यं च महात्मानं आसीनं च सुखासने॥
देवदेव भवाम्भोधेः दुस्तरात्कलुषेन्द्रियाः ।
जनाः कथं तरन्तीह तन्मे वद कृपानिधे॥
श्री अगस्त्य उवाच
हनूमन्तं कृतस्तोत्रं वानरैर्विमलात्मभिः ।
पठन्ति ये सदा मर्त्याः तच्चित्तविमलात्मकाः॥
तरन्ति भवपादोधिं प्राप्नुवन्ति हरेः पदम् ।
आयुः कीर्तिर्यशश्चैव लभन्ते नात्र संशयः॥
ॐ अस्य श्रीवानरगीतास्तोत्रमन्त्रस्य – अगस्त्य ऋषिः
जगती छन्दः – श्रीहनुमान् देवता – मारुतात्मज इति बीजं –
अञ्जनासूनुरिति शक्तिः – वायुपुत्र इति कीलकं –
श्रीहनुमत्प्रसादसिध्यर्थे विनियोगः॥
ध्यानम्
वामे जानुनि वामजानुमपरं ज्ञानाख्यमुद्रान्वितं
हृद्देशे कलयन्नुतो मुनिगणैरध्यात्मदक्षेक्षणः ।
आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः
ध्यायन् ब्रह्म परं करोतु मनसा शुद्धिं हनूमान् मम॥
सञ्जीव पर्वतोद्धार मनोदुःखं निवारय ।
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम॥
श्रीसुग्रीव उवाच
सुवर्णशैलस्य गवां च कोटिशतस्य कोटेश्च शतस्य यत्फलम् ।
दानस्य नैवास्ति समं फलं च ध्रुवं च तन्मारुतिदर्शनेन॥ १॥
श्रीगन्धमादनः उवाच
हनुमन्निति मे स्नानं हनुमन्निति मे जपः ।
हनुमन्निति मे ध्यानं हनुमत्कीर्तनं सदा॥ २॥
श्रीसुषेण उवाच
रामभक्तचरितकथामृतं वायुतनयगुणानुकीर्तनम् ।
रामदास तव पादसेवनं सम्भवन्तु मम जन्मजन्मनि॥ ३॥
श्री अङ्गद उवाच
माता सुवर्चलादेवी पिता मे वायुनन्दनः ।
बान्धवा हनुमद्भक्ताः स्वदेशो भुवनत्रयम्॥ ४॥
श्रीनील उवाच
भक्तकल्पतरुं सौम्यं लोकोत्तरगुणाकरम् ।
सुवर्चलापतिं वन्दे मारुतिं वरदं सदा॥ ५॥
श्रीगवाक्ष उवाच
वायुपुत्रेण महता यद्यदुक्तं करोमि तत् ।
न जानामि ततो धर्मं मद्धर्मं रक्ष मां सदा॥ ६॥
श्रीमैन्द उवाच
समीरसूते सततं त्वदाज्ञया त्वदंशकः प्रेरितमानसेन्द्रियः ।
करोम्यहं यच्च शुभाशुभं प्रभो त्वत्प्रीतये मत्कृतमस्तु तत्सदा॥ ७॥
श्रीद्विविद उवाच
रामादीनां रणे ख्यातिं दातुं यो रावणादिकान् ।
नावधीत्स्वयमेवैकस्तं वन्दे हनुमत्प्रभुम्॥ ८॥
श्रीशरभ उवाच
भौमस्य वासरे पूजा कर्तव्या हनुमत्प्रभोः ।
भवेत्सः शुचिरायुः श्रीः पुत्रमित्रकलत्रवान्॥ ९॥
श्रीगवयः
आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् ।
तृणीकृतदशग्रीवं आञ्जनेयं नमाम्यहम्॥ १०॥
श्रीप्रहस्तः
उल्लङ्ख्य सिन्धोः सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्॥ ११॥
श्रीनल उवाच
नमाम्यहं वायुजपादपङ्कजं करोमि तद्वायुजपूजनं सदा ।
वदामि वातात्मजनाम मङ्गलं स्मरामि वायूद्भवकीर्तनं शुभम्॥ १२॥
श्रीधर्मक उवाच
सप्तषष्टिर्हतान् कोटिवानराणां तरस्विनाम् ।
यः सञ्जीवनयामास तं वन्दे मारुतात्मजम्॥ १३॥
श्रीगज उवाच
तनौ बालपाशः पिता पार्वतीशः स्फुरद्बाहुदण्डो मुखे वज्रदंष्ट्रः ।
सती चाञ्जना यस्य माता ततोऽन्यं न जाने न जाने न जाने न जाने॥ १४॥
श्रीऋक्षराज उवाच
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत्॥ १५॥
श्रीसम्पातिरुवाच
नाशकं सीताशोकस्य श्रीरामानन्ददायिनम् ।
सुखप्रदं साधकानां वायुपुत्रं नमाम्यहम्॥ १६॥
श्रीवेगवानुवाच
अञ्जनावरपुत्राय रामेष्टाय हनूमते ।
सर्वलोकैकवीराय ब्रह्मरूपाय ते नमः॥ १७॥
श्रीरुद्रग्रीव उवाच
हनूमत्सदृशं दैवं नास्ति नास्तीति भूतले ।
तं पूजयन्ति सततं ब्रह्मा-गौरी-महेश्वराः॥ १८॥
श्रीदधिमुखः
आलोड्य वेदशास्त्राणि सर्वाण्यपि महर्षिभिः ।
इदमेकं सुनिर्णीतं न दैवं हनुमत्परम्॥ १९॥
श्रीसुदंष्ट्र उवाच
मङ्गलं हनुमन्नित्यं मङ्गलं कपिपुङ्गव ।
मङ्गलं चाञ्जनासूनो मङ्गलं राघवप्रिय॥ २०॥
श्रीऋषभ उवाच
करुणारसपूर्णाय जगदानन्दहेतवे ।
कुक्षिस्थाखिललोकाय हनूमद्ब्रह्मणे नमः॥ २१॥
श्रीपृथुरुवाच
दाता दापयिता चैव संहर्ता रक्षकस्तथा ।
प्रेरकश्चानुमोदकश्च कर्ता भोक्ता कपीश्वरः॥ २२॥
श्रीजाम्बवान् उवाच
भुक्तिमुक्तिप्रदं नाम विहाय हनुमन् तव ।
संसरन्ति जना मूढाः किं विचित्रमतःपरम्॥ २३॥
श्रीज्योतिर्मुख उवाच
मत्प्रार्थनाफलमिदं मम जन्मनश्च नेच्छामि किञ्चिदपरं हनुमन् महात्मन् ।
त्वद्दासदासजनपादरजोनिकेत मस्मद्धितो भवतु सेवकपारिजात॥ २४॥
श्रीसुमुख उवाच
रसने रससारज्ञे मधुरास्वादकाङ्क्षिणि ।
हनुमन्नामपीयूषं सर्वदा रसने पिब॥ २५॥
श्रीगोलाङ्गूल उवाच
कुतो दुर्दिनं वा कुतो भौमवारः कुतो वैधृतिस्तस्य भद्रा कथं वा ।
कुतो वा व्यतीपातदोषक्षुतं वा हनूमत्पदध्यानवीताशुभस्य॥ २६॥
श्रीकुमुद उवाच
त्रातारो भुवि पादाश्च मार्गाश्च रसने तव ।
हनूमन्निर्मितास्सन्ति जनानां हीनता कुतः॥ २७॥
श्रीशतबलिरुवाच
धन्योस्म्यनुगृहीतोऽस्मि पुण्योऽस्मि महितोऽस्म्यहम् ।
हनुमन् त्वत्पदाम्भोजसेवाविभवयोगतः॥ २८॥
श्रीकेसरिरुवाच
त्वत्तोऽन्यः शरणं नास्ति त्वमेव मम रक्षकः ।
अतो मयि कृपादृष्ट्या हनुमन् रक्ष मां सदा॥ २९॥
श्रीमारीच उवाच
सदा पापौघनिष्ठूतं पापेषु हृष्टमानसम् ।
पापात्मानं महापापं रक्ष मां हनुमत्प्रभो॥ ३०॥
श्रीतरुण उवाच
हनूमदाज्ञया यच्च भावि तद्भवति ध्रुवम् ।
यदभावि न तद्भावि वृथा देहपरिश्रमः॥ ३१॥
श्रीगोमुख उवाच
अपराधशतं नित्यं कुर्वाणं मां नृशंसकम् ।
क्षमस्व दासबुध्या त्वं हनुमन् करुणानिधे॥ ३२॥
श्रीपनस उवाच
हनुमतो न परं परमार्थतो हनुमतो न परं परमार्थतः ।
इति वदामि जनान् परमार्थतो न हि परं भवतोऽत्र विचक्षणः॥ ३३॥
श्रीसुषेण उवाच
माता हनूमांश्च पिता हनूमान् भ्राता हनूमान् भगिनी हनूमान् ।
विद्या हनूमान् द्रविणं हनूमान् स्वामी हनूमान् सकलं हनूमान्॥ ३४॥
श्रीहरिलोम उवाच
इतो हनूमान् परतो हनूमान् यतो यतो यामि ततो हनूमान् ।
हनूमतोऽन्यं ननु नास्ति किञ्चित् ततो हनूमान् तमहं प्रपद्ये॥ ३५॥
श्रीरङ्ग उवाच
यद्वर्णपदमात्राभिः सहसोच्चारणो भवेत् ।
क्षमस्व तत्कृपादृष्ट्या हनूमन् प्रणतोऽस्म्यहम्॥ ३६॥
श्रीविधुष्ट उवाच
हनूमान् रक्षतु जले स्थले रक्षतु वायुजः ।
अटव्यां वायुपुत्रस्तु सर्वतः पातु मारुतिः॥ ३७॥
फलश्रुति:
इतीदं वानरप्रोक्तं सर्वपापहरं वरम् ।
सर्वज्ञानप्रदं चैव सर्वसौभाग्यवर्धनम्॥
इमां वानरगीतां ये पठन्ति श्रद्धयान्विताः ।
पुत्रान् पौत्रांश्च भोगांश्च लभन्ते क्षणमात्रतः॥
ऐश्वर्यं शाश्वतं चैव सुस्थिराः सम्पदस्तथा ।
आयुर्दीर्घं च कीर्तिं च प्राप्नुवन्ति न संशयः॥
इह भुक्त्वाखिलान् कामान् आञ्जनेयप्रसादतः ।
गच्छन्त्यन्ते पदं नित्यं पुनरावृत्तिवर्जितम्॥
इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे
श्रीवानरगीता नाम षट्सप्ततितमः पटलः॥